||Sundarakanda ||

|| Sarga 55||( Summary in Sanskrit & Telugu)

 

||om tat sat||

सुन्दरकांड.
अथ चतुःपंचाशस्सर्गः॥

ततः कृतमनोरथः कपिः लंकां वीक्षमाणः वर्धमान समुत्साहः शेषं कार्यं अचिंतयत्॥

यत् एषां राक्षसाम् भूयः संताप जननं भवेत् किं नु कर्तव्यं मे इह सांप्रातं अवशिष्टं॥ वनं प्रमथितं तावत् प्रकृष्टाः राक्षसाः हताः । बलैक देशः क्षपितः । दुर्गविनाशनं शेषं॥दुर्गे विनाशिते कर्म सुखपरिश्रमम् भवेत्। अस्मिन् कार्ये अल्पयत्नेन श्रमः सफलः स्यात्॥ ममलांगूले यः अयं हव्यवाहनः दीप्यते अस्य एभिः गृहोत्तमैः सन्तर्पणं कर्तुं न्यायम्॥

ततः प्रदीप्तलांगूलः महाकपिः सविद्युत् तोयदः इव लंकायाः भवनाग्रेषु विचचार॥सः वानरः उद्यानानि च प्रासादाश्च वीक्षमाणः असन्त्रस्तः राक्षसानां गृहात् गृहं चचार॥

महावेगः श्वसनेन समः बली वीर्यवान् सः प्रहस्तस्य निवेशनं अवप्लुत्य तत्र अग्निं निक्षिप्य ततः अन्यत् महापार्श्वस्य वेश्म पुप्लुवे हनुमान् कालनलशिखोपमम् अग्निं मुमोच॥

महातेजाः सः महाकपिः तदा वज्रदंष्ट्रस्य शुकस्य धीमतः सारणस्य च पुप्लुवे॥हरियूथपः तथा इंद्रजितः वेश्म ददाह।ततः जंबुमाले सुमालेश्च भवनम् ददाह॥रस्मिकेतोश्च भवनं तथैव रक्षसः सूर्यशत्रोः च ह्रस्वकर्णश्च दंष्ट्रश्च रोमशस्य च(ददाह)॥रक्षसः युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ददाह॥

कराळस्य पिशाचस्य शोणिताक्षस्य च एव हि ददाह। कुंभकर्णस्य भवनं मकराक्षस्य च एव ददाह॥यज्ञशत्रोः भवनं तथैव ब्रह्मशत्रोः च नरान्तकस्य कुम्भस्य दुरात्मनः निकुंभस्यच भवनं ददाह॥ महातेजा विभीषण गृहं प्रति वर्जयित्वा क्रममाणः क्रमेनैव हरिपुंगवः ददाह॥

महायशाः सः महाकपिः रुद्धिमतां महार्हेषु तेषु तेषु गृहेषु ऋद्धिं ददाह॥ वीर्यवान् लक्ष्मीवान् सर्वेषां समतिक्रम्य अथ राक्षसेंद्रस्य रावणस्य निवेशनम् अससाद॥

ततः हनुमान् नानारत्न विभूशिते मेरुमंदर संकाशे सर्वमंगळ शोभिते तस्मिन् मुख्ये गृहे लांगूलाग्रे प्रतिष्टं प्रदीप्तं अग्निं उत्सृज्य युगान्त जलदे ननाद॥

हुताशनः श्वसनेन संयोगात् अतिवेगः महाबलः प्रावर्धत । कालाग्निः इव जज्वाल॥पवनः प्रदीप्तं अग्निं तेषु वेश्मसु आचारयत् । श्वसनसंयोगात् हुताशनः अतिवेगः अभूत्॥ कांचनजालानि मुक्तामणिमयानि च रत्नवंति महन्ति च तानि भवनानि अवशीर्यन्त॥

।स्वगृहस्य परित्राणे प्रधावतां भग्नोत्साहोर्जितश्रियां राक्षसानाम् नूनम् एषः अग्निः कपिरूपेण आयातः इति तुमुलः शब्दः संजज्ञे ॥काश्चित् स्त्रियः स्तनन्धराः मुक्तमूर्धजाः क्रन्दन्त्यः अग्निपरीतेभ्यः हर्म्येभ्यः सहसा पेतुः। अंबरात् अभ्रेभ्यः पतन्यः सौदामिन्यः इव॥

सः वज्रविद्रुम वैडूर्य मुक्ता रजत संहितान् विचित्रान् भवनात् स्यन्दमानान् धातून् ददर्श॥यथा अग्निः काष्टानां तृणानां न तृप्यति तथा हनुमान् राक्षसेंद्राणां विशस्तानां न तृप्यति॥

वह्नेः शिखाः क्वचित् किंशुकसंकाशाः क्वचित् शाल्मलिसन्निभाः क्वचित् कुंकुम संकाशाः चकाशिरे॥ वेगवता वानरेण महात्मना हनुमता लंकापुरं रुद्रेण त्रिपुरं यथा प्रदग्धम्॥

तत्ः वेगवता हनुमाता विश्रुष्टः भीमपराक्रमः अग्निः चूडावलयं प्रसार्य प्रदीप्तः लंकापुरपर्वताग्रे समुत्थितः॥विधूमरस्मिः भवनेषु सक्तः समारुताग्नि रक्ष्ः शरीराज्यसमर्पितार्चिः युगान्तकालानलतुल्यवेगः ववृधे॥आदित्यकोटि सदृशः सुतेजाः समस्तां लंकां परिवार्य तिष्टन् महाग्निः अनैकैः अशनिप्ररूढैः शब्दैः अण्डं भिन्दन् इव प्रबभौ॥

तत्र रुक्षप्रभः किंशुकपुष्पचूडः अग्निः अम्बरात् अतिप्रवृद्धः अभ्राः निर्वानधूमाकुलराजयः नीलोत्पलाभाः प्रचकाशिरे॥अयं वानरः न। वज्री त्रिदशेश्वरः महेन्द्रः वा साक्षात् यमः वा अनिलो वा रुद्रः अग्निः अर्कः धनदश्च सोमः स्वयं कालः एव वा॥

सर्वपितामहस्य सर्वस्य धातुः चतुराननस्य ब्रह्मणह् रक्षोपसंहारकरः प्रकोपः वानररूपधारी इह आगतः उपायातः किम्?॥ अनंतं अव्यक्तं अचिन्त्यं एकं वैष्णवम् परं सुतेजः साम्प्रतं रक्षो विनासाय स्वमायया कपिरूपं एत्य आगतं किं वा॥ सप्राणि संघां सगृहं सवृक्षां तां पुरीं सहसा दग्धां बहवः विशिष्टाः सर्वे रक्षोगणाः तत्र समेत्य इति एवं ऊचुः॥

ततः सराक्षसा साश्वरथा स नागा सपक्षिसंघाः स मृगा स वृक्षा लंका सहसा प्रदग्धा दीना तुमुलं सुशब्दं रुरोद॥ हा तात हापुत्त्रक हा कान्त हा मित्र भोगयुतं सुपुण्यं हा जीवितं बहुधा ब्रुवद्भिः रक्षोभिः घोरतरः सुभीषः शब्दः कृतः ॥

हुताशनज्वालसमावृता हतप्रवीराः परिवृत्तयोधा हनूमतः क्रोधबलाभिभूता सा लंका शापोपहतेव बभूव॥महात्मनः हनुमान् ससंभ्रमत्रस्तविषण्णराक्षसाम् समुज्ज्वलज्ज्वाल हुताशनांकिताम् लंकां स्वयम्भूकोपोपहतां अवनिं इव लंकां ददर्श॥

पवनात्मजः हनुमान् पादपरत्नसंकुलं वनं भुंक्त्वा संयुगे महन्ति रक्षांसि हत्वा गृहरत्नमालिनीं तां पुरीं दग्ध्वा तस्थौ॥विचित्रे त्रिकूट संगाग्रतले प्रतिष्टितः प्रदीप्तलांगूलकृतार्चिमाली वानरराजसिंहः अंशुमाली आदित्य इव व्यराजत॥

महात्मा सः सुबहून् तान् राक्षसान् हत्वा बहुपादपम् तत् वनं च भंक्त्वा रक्षोभवनेषु अग्निं विश्रुज्य मनसा रामं जगाम॥ततः वानरवीरमुख्यं महाबलं मारुततुल्यवेगं महामतिं वरिष्टं तं वायुसुतं सर्वे देवगणाः प्रतुष्टुवुः॥

महातेजः महाकपिः वनं भंक्त्वा संयुगे रक्षांसि हत्वा रम्यां लंकपुरीम् दग्ध्वा रराज॥तत्र सगंधर्वाः देवाः सिद्धाश्च परमर्षयः दग्धां तां लंकां पुरीं दृष्ट्वा परमम् विस्मयम् गताः ॥

वानरश्रेष्ठं महाकपिं तं हनुमंतं दृष्ट्वा कालाग्निः इति संचित्य सर्वभूतानि तत्रसुः॥

तत्र सर्वे मुनिपुंगवाश्च गण्धर्वविद्याधरनागयक्षाः महंति सर्वाणि भूतानि अतुल्यरूपां प्रां प्रीतिं जग्मुः॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे चतुःपंचाशस्सर्गः ॥

||om tat sat||